1. 11

    तथा चेन्द्रजितो वेश्म ददाह हरियूथपः | जम्बुमाले स्सुमालेश्च ददाह भवनं ततः || ५-५४-११

    Thus Hanuman, the chief of the vanaras set fire to Indrajit's residence and then to Jambumali's and Sumali's building. [5-54-11]

  2. 12

    रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च | ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः || ५-५४-१२

    The mansions of other ogres, Rasmiketu, Suryasatru, Hrasvakarna, Vajradamshtra, Romasa,..... - [5-54-12]

  3. 13

    युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः | विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च || ५-५४-१३

    - Yuddhonmatta, Matta, Dhwajagriva the demon, the terrific Vidyujjihva, Hastimukha,..... - [5-54-13]

  4. 14

    करालस्य पिशाचस्य शोणिताक्षस्य चैव हि | कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि || ५-५४-१४

    - also those of Karala, Pisacha, Sonitaksha and the mansions of Kumbhakarna, Makaraksha and..... - [5-54-14]

  5. 15

    यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च | नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः || ५-५४-१५

    - in the same way the mansions of Yagnasatru, Brahmasatru, Naranthaka, Kumbha, and wicked Nikumbha..... - [5-54-15]